प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् । यत्स्वप्नजागरसुषुप्तिमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥१ प्रातर्भजामि मनसा वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण । यन्नेतिनेतिवचनैर्निगमा अवोचं_ स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥२॥ प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यम् । यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥ श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् । प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम् ॥४॥ In the morning, I recognize myself in the heart which is the source of all existence, which is awareness itself and which is by nature joyful. I recognize the 'I' which is the goal of the most exalted of sages. I am ...
This blog will have poems of Advaita Vedanta